वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥५१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥५१८॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मुद्र꣡स्य꣢ । स꣣म् । उद्र꣡स्य꣢ । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣣द । च्यु꣡तः꣢꣯ ॥५१८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 518 | (कौथोम) 6 » 1 » 3 » 8 | (रानायाणीय) 5 » 5 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि कौन कहाँ आनन्दरस को प्रवाहित करते हैं।

पदार्थान्वयभाषाः -

(मनीषिणः) मनन करनेवाले, (मत्सरासः) उल्लासयुक्त, (मदच्युतः) आनन्द बहानेवाले (सोमासः) ब्रह्मानन्द रूप सोमरस का पान किये हुए (आयवः) मनुष्य (समुद्रस्य विष्टपे अधि) राष्ट्ररूप अन्तरिक्ष के लोक में अर्थात् राष्ट्रवासी जनों में (मद्यम्) उल्लासजनक (मदम्) ब्रह्मानन्द-रस को (पवन्ते) प्रवाहित करते हैं ॥८॥

भावार्थभाषाः -

स्वयं ब्रह्मानन्द-रस में मग्न योगी जन अन्यों को भी ब्रह्मानन्द-रस में मग्न क्यों न करें? ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ के कुत्रानन्दरसं प्रवाहयन्तीत्युच्यते।

पदार्थान्वयभाषाः -

(मनीषिणः) मननवन्तः, (मत्सरासः) उल्लासमयाः, (मदच्युतः) आनन्दस्राविणः (सोमासः) पीतब्रह्मानन्दरूपसोमाः। अत्र सोमशब्दस्य सोमवति लक्षणा विज्ञेया, यद्वा सोमासः सोमवन्तः, मतुब्लुक्। (आयवः) मनुष्याः। आयव इति मनुष्यनाम। निघं० २।३। (समुद्रस्य विष्टपे अधि) राष्ट्ररूपस्य अन्तरिक्षस्य लोके, राष्ट्रवासिषु जनेषु इत्यर्थः। (मद्यम्) उल्लासजनकम् (मदम्) ब्रह्मानन्दरसम् (पवन्ते) प्रवाहयन्ति। ‘मत्सरासः’, ‘सोमासः’ इत्युभयत्र ‘आज्जसेरसुक्’ इति जसोऽसुगागमः ॥८॥

भावार्थभाषाः -

स्वयं ब्रह्मानन्दरसे मग्ना योगिनो जना अन्यानपि ब्रह्मानन्दरसमग्नान् कुतो न कुर्युः ॥८॥

टिप्पणी: १. ऋ० ९।१०७।१४, ‘विष्टपे’, ‘मदच्युतः’ इत्यत्र क्रमेण ‘विसृपि, स्वर्विदः’ इति पाठः। साम० ८५६।